अनात्मकम् असत् तुच्छं किं नु तस्यावभासकम् । वेदशास्त्रपुराणानि भूतानि सकलान्यपि ॥ येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् । क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि ॥ तथैव विद्वान् रमते निर्ममो निरहं सुखी । कामान् निष्कामरूपी सञ्चरत्येकचरो मुनिः ॥
अनात्मकम् । असत् । तुच्छम् । किम् । नु । तस्य । अवभासकम् । वेद-शास्त्र-पुराणानि । भूतानि । सकलानि । अपि । येन । अर्थ-वन्ति । तम् । किम् । नु । विज्ञातारम् । प्रकाशयेत् । क्षुधाम् । देह-व्यथाम् । त्यक्त्वा । बालः । क्रीडति । वस्तुनि । तथा । एव । विद्वान् । रमते । निर्ममः । निरहम् । सुखी । कामान् । निष्काम-रूपी । सञ्चरति । एक-चरः । मुनिः ।
anātmakam asat tucchaṃ kiṃ nu tasyāvabhāsakam | vedaśāstrapurāṇāni bhūtāni sakalāny api || yena arthavanti taṃ kiṃ nu vijñātāraṃ prakāśayet | kṣudhāṃ dehavyathāṃ tyaktvā bālaḥ krīḍati vastuni || tathaiva vidvān ramate nirmamo nirahaṃ sukhī | kāmān niṣkāmarūpī sañcaraty ekacaro muniḥ ||
अनात्मकमसत्तुच्छं किं नु तस्यावभासकम्। वेदशास्त्रपुराणानि भूतानि सकलान्यपि येनार्थवन्ति, तं किं नु विज्ञातारं प्रकाशयेत्। क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि; तथैव विद्वान् रमते निर्ममो निरहं सुखी। कामान् निष्कामरूपी सञ्चरत्येकचरो मुनिः॥
What is non-self, unreal, and trifling—what could illumine That (Self)? The Vedas, śāstras, Purāṇas, and all beings too become meaningful through That; what could make the Knower of that (Self) manifest? Having set aside hunger and bodily pain, a child plays with an object; so too the knower delights—without possessiveness, without ego, happy. Moving among objects, taking the form of desirelessness, the solitary sage wanders.
Curious about the meaning, context, or a word? Ask, and continue the conversation in the Vedapath app.
A free Google sign-in keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.