दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । उ॒पा॒ᳪशोर्वी॒र्ये॒ण जुहोमि ह॒तᳪ रक्ष॒ः स्वाहा॒ । रक्ष॑सां त्वा ब॒धायाब॑धिष्म॒ रक्षोऽब॑धिष्मा॒मुम॒सौ ह॒तः
devásya tvā savitúḥ prasavé’śvinor bāhúbhyāṃ pūṣṇó hástābhyām | upā́ṃśor vīryèṇa juhomi hatáṃ rákṣaḥ svā́hā | rákṣasāṃ tvā badhā́yābadhīṣma rákṣo’badhīṣmā́mum asáu hatáḥ
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । उपांशोर्वीर्येण जुहोमि—हतं रक्षः स्वाहा । रक्षसां त्वा बधायाबधिष्म; रक्षोऽबधिष्म; अमुमसौ हतः ।
देवस्य । त्वा । सवितुः । प्रसवे । अश्विनोः । बाहुभ्याम् । पूष्णः । हस्ताभ्याम् । उप-अंशोः । वीर्येण । जुहोमि । हतम् । रक्षः । स्वाहा । रक्षसाम् । त्वा । बधाय । अबधिष्म । रक्षः । अबधिष्म । अमुम् । असौ । हतः ।