अ॒स्मे वो॑ अस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतु॑र॒स्मे वर्चा॑ᳪसि सन्तु वः । नमो॑ मा॒त्रे पृ॑थि॒व्यै॒ नमो॑ मा॒त्रे पृ॑थि॒व्या इ॒यं ते॒ राड् य॒न्ताऽसि॒ यम॑नो ध्रु॒वो॒ऽसि ध॒रुण॑: । कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा
asmé vo astv indriyám asmé nṛmnám utá kratúr asmé várcāṃsi santu vaḥ | námo mātré pṛthivyái námo mātré pṛthivyā́ iyáṃ te rā́ḍ yantā́’si yámano dhruvó’si dharuṇáḥ | kṛṣyái tvā kṣémāya tvā rayyái tvā póṣāya tvā
अस्मे वो अस्त्विन्द्रियम् अस्मे नृम्णम् उत क्रतुः अस्मे वर्चांसि सन्तु वः । नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्याः । इयं ते राड् यन्ताऽसि यमनो ध्रुवोऽसि धरुणः । कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा ।
अस्मे । वः । अस्तु । इन्द्रियम् । अस्मे । नृम्णम् । उत । क्रतुः । अस्मे । वर्चांसि । सन्तु । वः । नमः । मात्रे । पृथिव्यै । नमः । मात्रे । पृथिव्याः । इयम् । ते । राट् । यन्ता । असि । यमनः । ध्रुवः । असि । धरुणः । कृष्यै । त्वा । क्षेमाय । त्वा । रय्यै । त्वा । पोषाय । त्वा ।