सोम॑ः पवते॒ सोम॑ः पवते॒ऽस्मै॒ ब्रह्म॑णे॒ऽस्मै क्ष॒त्राया॒स्मै सु॑न्व॒ते यज॑मानाय पवत इ॒ष ऊ॒र्जे प॑वते॒ऽद्भ्य॒ ओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वीभ्यां॑ पवते सुभू॒ताय॑ पवते॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः
sómaḥ pavate | sómaḥ pavate | ’smái bráhmaṇe ’smái kṣatrā́yāsmái sunváte yajámānāya pavata iṣá ū́rje pavate ’dbhyá óṣadhībhyaḥ pavate dyā́vā-pṛthivī́bhyāṃ pavate subhūtā́ya pavate víśvebhyas tvā devébhya eṣá te yónir víśvebhyas tvā devébhyaḥ
सोमः पवते, सोमः पवते—अस्मै ब्रह्मणे, अस्मै क्षत्राय, अस्मै सुन्वते यजमानाय पवते। इष ऊर्जे पवते; अद्भ्य ओषधीभ्यः पवते; द्यावापृथिवीभ्यां पवते; सुभूताय पवते। विश्वेभ्यस्त्वा देवेभ्यः—एष ते योनिः; विश्वेभ्यस्त्वा देवेभ्यः।
सोमः । पवते । सोमः । पवते । अस्मै । ब्रह्मणे । अस्मै । क्षत्राय । अस्मै । सुन्वते । यजमानाय । पवते । इषे । ऊर्जे । पवते । अद्भ्यः । ओषधीभ्यः । पवते । द्यावापृथिवीभ्याम् । पवते । सुभूताय । पवते । विश्वेभ्यः । त्वा । देवेभ्यः । एषः । ते । योनिः । विश्वेभ्यः । त्वा । देवेभ्यः ।