उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॒ऽसि॒ स्वा॒ग्रयणः । पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं॒ विष्णु॒स्त्वामि॑न्द्रि॒येण॑ पातु॒ विष्णुं॒ त्वं पा॑ह्य॒भि सव॑नानि पाहि
upayā́magṛhīto'sy agrayaṇó'si svāgrayaṇaḥ | pā́hi yajñáṃ pā́hi yajñápatim | víṣṇus tvām indriyéṇa pātu | víṣṇuṃ tváṃ pāhy abhí sávanāni pāhi
उपयामगृहीतोऽसि अग्रयणोऽसि स्वाग्रयणः। पाहि यज्ञं पाहि यज्ञपतिं विष्णुस्त्वामिन्द्रियेण पातु विष्णुं त्वं पाह्यभि सवनानि पाहि॥
उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । अ॒ग्र॒य॒णः । अ॒सि॒ । सु॒-अ॒ग्र॒य॒णः । पा॒हि । य॒ज्ञम् । पा॒हि । य॒ज्ञ-प॑तिम् । विष्णु॑ः । त्वा॒ । इ॒न्द्रि॒येण॑ । पातु॑ । विष्णु॑म् । त्वम् । पा॒हि । अ॒भि । सव॑नानि । पा॒हि