Adhyaya 40
Shukla YajurvedaAdhyaya 4017 Mantras

Adhyaya 40

Isha Upanishad -- the crown jewel of the Vajasaneyi Samhita on the nature of the Self and renunciation.

← Adhyaya 39

Mantras

Mantra 1

ई॒शा वा॒स्य॒मि॒दᳪ सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् । तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑ध॒ः कस्य॑ स्वि॒द्धन॑म्

ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥

Mantra 2

कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तᳪ समा॑: । ए॒वं त्वयि॒ नान्यथे॒तो॒ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑

इह कर्माणि कुर्वन्नेव शतं समा जिजीविषेत्। एवं त्वयि, नान्यथेतोऽस्ति; न कर्म नरे लिप्यते।

Mantra 3

अ॒सु॒र्या नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः । ताँस्ते प्रेत्यापि॑ गच्छन्ति॒ ये के चा॑त्म॒हनो॒ जना॑:

असूर्या नाम ते लोकाः अन्धेन तमसाऽऽवृताः। तान् ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः॥

Mantra 4

अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो नैन॑द्दे॒वा आ॑प्नुव॒न् पूर्व॒मर्श॑त् । तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्शत्। तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥

Mantra 5

तदे॑जति॒ तन्नैज॑ति॒ तद्दू॒रे तद्व॑न्ति॒के । तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः

तदेजति तन्नैजति तद्दूरे तद्वन्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥

Mantra 6

यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति । स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि चि॑कित्सति

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विचिकित्सति ॥

Mantra 7

यस्मि॒न्त्सर्वा॑णि भू॒तान्यात्मै॒वाभू॑द्विजान॒तः । तत्र॒ को मोह॒: कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः

यस्मिन् विजानतः सर्वाणि भूतानि आत्मैवाभूत्, एकत्वमनुपश्यतः तत्र कः मोहः, कः शोकः?

Mantra 8

स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रᳪ शु॒द्धमपा॑पविद्धम् । क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न् व्य॒दधाच्छाश्व॒तीभ्य॒: समा॑भ्यः

स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्। कविर्मनीषी परिभूः स्वयम्भूः, याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः॥

Mantra 9

अ॒न्धं तम॒: प्रवि॑शन्ति॒ येऽसं॑भूतिमु॒पास॑ते । ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ सम्भू॑त्याᳪ र॒ताः

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते। ततो भूय इव ते तमो य उ सम्भूत्यां रताः॥

Mantra 10

अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात् । इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्। इति शुश्रुम धीरणां ये नस्तद्विचचक्षिरे॥

Mantra 11

सम्भू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ᳪ स॒ह । वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒मृत॑मश्नुते

सम्भूतिं च विनाशं च यस्तद्वेदोभयᳪ सह। विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते॥

Mantra 12

अ॒न्धं तम॒ः प्रवि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते । ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ᳪ र॒ताः ॥

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥

Mantra 13

अ॒न्यदे॒वाहुर्वि॒द्याया॑ अ॒न्यदा॑हु॒रवि॑द्यायाः । इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥

अन्यदेवाहुर्विद्याया अन्यदाहुरविद्यायाः । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥

Mantra 14

वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ᳪ स॒ह । अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒ऽमृत॑मश्नुते ॥

विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥

Mantra 15

वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ᳪ शरी॑रम् । ओ३म् क्रतो॑ स्मर । क्लि॒बे स्म॑र । कृ॒तᳪ स्म॑र ॥

वायुरनिलममृतम्; अथेदं भस्मान्तं शरीरम्। ओम्! क्रतो स्मर; क्लिबे स्मर; कृतं स्मर।

Mantra 16

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भुयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ॥

अग्ने, नय सुपथा राये अस्मान्; विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनः; भूयिष्ठां ते नम उक्तिं विधेम।

Mantra 17

हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् । यो॒ऽसावा॑दि॒त्ये पुरु॑ष॒: सोऽसाव॒हम् । ओ३म् खं ब्रह्म॑

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्। योऽसावादित्ये पुरुषः सोऽसावहम्। ओ३म् खं ब्रह्म।

Frequently Asked Questions

It is the Īśāvāsya Upaniṣad placed inside the Saṃhitā itself, giving a direct Upaniṣadic teaching on Brahman, renunciation, and liberation within a ritual Vedic corpus.

No. It teaches that one should live fully while doing rightful works, but without possessiveness; action is to be integrated with inner knowledge rather than treated as the final goal.

The seeker prays to Sūrya/Savitṛ (often addressed as Pūṣan) to remove the radiant veil that hides satya, so the real face of Truth may be directly seen—symbolizing the final unveiling of liberating realization.