व्र॒तं कृ॑णुता॒ग्निर्ब्रह्मा॒ग्निर्य॒ज्ञो वन॒स्पति॑र्य॒ज्ञिय॑: । दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हसᳪ सुती॒र्था नो॑ अस॒द्वशे॑ । ये दे॒वा मनो॑जाता मनो॒युजो॒ दक्ष॑क्रतव॒स्ते नो॑ऽवन्तु॒ ते न॑: पान्तु॒ तेभ्य॒: स्वाहा॑
vratáṃ kṛṇutāgnír brahmā́gnír yajñó vanaspátir yajñíyaḥ | daivī́ṃ dhíyaṃ manāmahe sumṛḍī́kām abhíṣṭaye varcó-dhāṃ yajñávāhasaṃ sutī́rthā no asád váśe | yé devā́ manojātā manoyújo dákṣakratavas té no ’vantu té naḥ pāntu tébhyaḥ svā́hā
व्रतं कृणुत। अग्निर्ब्रह्म; अग्निर्यज्ञः; वनस्पतिर्यज्ञियः। दैवीं धियं मनामहे—सुमृडीकामभिष्टये, वर्चोधां यज्ञवाहसम्; सुतीर्था नो असद्वशे। ये देवा मनोजाता मनोयुजो दक्षक्रतवः, ते नोऽवन्तु; ते नः पान्तु; तेभ्यः स्वाहा।
व्रतम् । कृणुत । अग्निः । ब्रह्म । अग्निः । यज्ञः । वनस्पतिः । यज्ञियः । दैवीम् । धियम् । मनामहे । सुमृडीकाम् । अभिष्टये । वर्चः-धाम् । यज्ञ-वाहसम् । सु-तीर्थाः । नः । असत् । वशे । ये । देवाः । मनः-जाताः । मनः-युजः । दक्ष-क्रतवः । ते । नः । अवन्तु । ते । नः । पान्तु । तेभ्यः । स्वाहा ।