एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ अजु॑षन्त॒ विश्वे॑ । ऋ॒क्सा॒माभ्या॑ᳪ सं॒तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । इ॒मा आप॒: शमु॑ मे सन्तु दे॒वी रोष॑धे॒ त्राय॑स्व॒ स्वधि॑ते मैन॑ᳪ हिᳪसीः
édam aganma devayájanaṃ pṛthivyā́ yátra devā́so ájuṣanta víśve | ṛ́k-sā́mābhyāṃ santáranto yájur-bhī rāyás-poṣéṇa samíṣā madema | imā́ ā́paḥ śámu me santu devī́ roṣadhe trā́yasva svádhite mā́ enaṃ hiṃsīḥ
एदमगन्म देवयजनं पृथिव्यां यत्र देवासोऽजुषन्त विश्वे। ऋक्सामाभ्यां संतरन्तो यजुर्भी रायस्पोषेण समिषा मदेम। इमा आपः शं मे सन्तु देवीः। रोषधे त्रायस्व। स्वधिते मैनं हिंसीः॥
एद॑म् । अ॒ग॒न्म॒ । दे॒व॒-यज॑नम् । पृ॒थि॒व्याḥ । यत्र॑ । दे॒वासः॑ । अजु॑षन्त । विश्वे॑ । ऋ॒क्-सामाभ्या॑म् । सं॒-तर॑न्तः । यजु॑र्भिः । रा॒यः-पोषे॑ण । सम्-इ॒षा । म॒दे॒म॒ । इ॒माः । आपः॑ । शम् । मे॒ । स॒न्तु॒ । दे॒वीः । रोष॑धे । त्राय॑स्व । स्वधि॑ते । मा॒ । ए॒न॒म् । हिᳪसीः