पय॑सो॒ रेत॒ आभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तरा॒ᳪ समा॑म् । त्विष॑: सं॒वृक् क्रत्वे॒ दक्ष॑स्य ते सुषु॒म्णस्य॑ ते सुषुम्णाग्निहु॒तः । इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ उप॑हूत॒ उप॑हूतस्य भक्षयामि
páyaso réta ā́bhṛtaṃ tásya dóham aśīmahý úttarām-uttarā́ṃ sámām | tvíṣaḥ saṃvṛ́k krátve dákṣasya te suṣúmṇasya te suṣumnāgnihutáḥ | índrapītasya prajā́patibhakṣitasya mádhumata úpahūta úpahūtasya bhakṣayāmi
पयसः रेतः आभृतं; तस्य दोहम् अशिमहि, उत्तराम् उत्तराᳪ समाम्। त्विषः संवृक्; क्रत्वे दक्षस्य ते; सुषुम्णस्य ते—सुषुम्णाग्निहुतः। इन्द्रपीतस्य, प्रजापतिभक्षितस्य, मधुमतः—उपहूत उपहूतस्य—भक्षयामि।
पय॑सः । रेतः॑ । आ-भृ॑तम् । तस्य॑ । दोह॑म् । अ॒शी॒म॒हि । उत्त॑राम्-उत्तरा॒म् । समा॑म् । त्विषः॑ । सं॒वृक् । क्रत्वे॑ । दक्ष॑स्य । ते॒ । सुषु॒म्णस्य॑ । ते॒ । सुषु॒म्ण-अ॒ग्नि॒हु॒तः । इन्द्र॑-पीतस्य । प्र॒जा-प॑ति-भक्षितस्य । मधु॑-मतः । उप॑-हूतः । उप॑-हूतस्य । भक्षयामि