सम॒ग्निर॒ग्निना॑ गत॒ सं दैवे॑न सवि॒त्रा सᳪ सूर्ये॑णारोचिष्ट । स्वाहा॒ सम॒ग्निस्तप॑सा गत॒ सं दैव्ये॑न सवि॒त्रा सᳪसूर्ये॑णारूरुचत
sám agnír agnínā gatá sáṃ daivéna savitrā́ sáṃ sū́ryeṇārocíṣṭa | svā́hā sám agnís tápasā gatá sáṃ daivyéna savitrā́ sáṃ sū́ryeṇārūrucat
समग्निरग्निना गतः; सं दैवेन सवित्रा सं सूर्येणारोचिष्ट। स्वाहा। समग्निस्तपसा गतः; सं दैव्येन सवित्रा सं सूर्येणारूरुचत॥
सम् । अ॒ग्निः । अ॒ग्निना॑ । ग॒त॒ । सम् । दैवे॑न । स॒वि॒त्रा । सम् । सूर्ये॑ण । अ॒रो॒चि॒ष्ट॒ । स्वाहा॑ । सम् । अ॒ग्निः । तप॑सा । ग॒त॒ । सम् । दैव्ये॑न । स॒वि॒त्रा । सम् । सूर्ये॑ण । अ॒रू॒रु॒च॒त॒ ।