मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् । क॒विᳪ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः
mūrdhā́naṃ divó aratíṃ pr̥thivyā́ vaiśvānarám r̥té ā́jātam agním | kavíṃ samrā́jam átithiṃ jánānām āsánnāḥ pā́traṃ janayanta devā́ḥ
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम्। कविं सम्राजम् अतिथिं जनानाम्; आसन्नाः पात्रं जनयन्त देवाः।
मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । ऋते । आ-जातम् । अग्निम् । कविम् । सम्राजम् । अतिथिम् । जनानाम् । आसन्नाः । पात्रम् । जनयन्त । देवाः