न तस्य॑ प्रति॒मा अ॑स्ति॒ यस्य॒ नाम॑ म॒हद्यश॑: । हि॒र॒ण्य॒ग॒र्भ इत्ये॒षः मा मा॑ हिᳪसी॒दित्ये॒षा यस्मा॒न्न जा॒त इत्ये॒ष:
ná tásya pratímā asti yásya nā́ma mahád yáśaḥ | hiraṇyagárbha íty eṣáḥ mā́ mā hiṃsī́d íty eṣā́ yásmān ná jā́ta íty eṣáḥ
न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः। ‘हिरण्यगर्भ’ इत्येषः (नाम); ‘मा मा हिᳪसीत्’ इत्येषा (प्रार्थना); ‘यस्मान्न जातः’ इत्येषः (विशेषणः)।
न । तस्य । प्रतिमा । अस्ति । यस्य । नाम । महत् । यशः । हिरण्यगर्भः । इति । एषः । मा । मा । हिंसीत् । इति । एषा । यस्मात् । न । जातः । इति । एषः