उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते
u̱pa̱pra̱yánto adhva̱ráṃ mántraṃ vocemāgnáye | ā̱ré a̱smé ca śṛṇva̱té
उपप्रयन्तोऽध्वरं, मन्त्रं वोचेमा अग्नये; आरे अस्मे च शृण्वते।
उप-प्रयन्तः । अध्वरम् । मन्त्रम् । वोचेम । अग्नये । आरे । अस्मे इति । च । शृण्वते ।