अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः । प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः
amutra̱bhūyā́d adhá yád yámasya bṛ́haspate abhíśaster ámuñcaḥ | práty auhatām aśvínā mṛtyúm asmād devā́nām agne bhiṣájā śácībhiḥ ||
अमुत्रभूयादध यद्यस्य यमस्य बृहस्पतेऽभिशस्तेरमुञ्चः । प्रत्यौहतामश्विना मृत्युमस्माद्देवानामग्ने भिषजा शचीभिः ॥
अ॒मु॒त्र॒ऽभूयात् । अ॒ध॒ । यत् । य॒मस्य॑ । बृह॑स्पते । अ॒भि॒ऽश॑स्तेः । अ॒म्॒ु॒ञ्चः । प्रति॑ । औ॒ह॒ता॒म् । अ॒श्विना॑ । मृ॒त्युम् । अ॒स्मात् । दे॒वाना॑म् । अ॒ग्ने॒ । भि॒षजा॑ । शची॑भिः ।