प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोक्षा॑मीन्द्रा॒ग्निभ्यां॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि वा॒यवे॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि॒ सर्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि । यो अर्व॑न्तं॒ जिघा॑ᳪसति॒ तम॒भ्य॒मीति॒ वरु॑णः| प॒रो मर्त॑: प॒रः श्वा
prajā́pataye tvā́ juṣṭáṃ prókṣāmi indrāgníbhyāṃ tvā́ juṣṭáṃ prókṣāmi vāyáve tvā́ juṣṭáṃ prókṣāmi víśvebhyás tvā devébhyo juṣṭáṃ prókṣāmi sárvebhyás tvā devébhyo juṣṭáṃ prókṣāmi | yo arvántaṃ jíghāṃsati tám abhy amī́ti váruṇaḥ | páro mártaḥ páraḥ śvā́
प्रजापतये त्वा जुष्टं प्रोक्षामि। इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि। वायवे त्वा जुष्टं प्रोक्षामि। विश्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामि। सर्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामि। यो अर्वन्तं जिघांसति तमभ्यमीति वरुणः। परो मर्तः परः श्वा।
प्र॒जाप॑तये । त्वा॒ । जुष्ट॑म् । प्रोक्षा॑मि । इन्द्रा॒ग्निभ्याम् । त्वा॒ । जुष्ट॑म् । प्रोक्षा॑मि । वा॒यवे॑ । त्वा॒ । जुष्ट॑म् । प्रोक्षा॑मि । विश्वे॑भ्यः । त्वा॒ । दे॒वेभ्यः॑ । जुष्ट॑म् । प्रोक्षा॑मि । सर्वे॑भ्यः । त्वा॒ । दे॒वेभ्यः॑ । जुष्ट॑म् । प्रोक्षा॑मि । यः । अर्व॑न्तम् । जिघा॑ᳪसति । तम् । अ॒भि । अ॒मीति॑ । वरु॑णः । प॒रः । मर्त॑ः । प॒रः । श्वा