दे॒वी जोष्ट्री॒ सर॑स्वत्य॒श्विनेन्द्र॑मवर्धयन् । श्रोत्रं॒ न कर्ण॑यो॒र्यशो॒ जोष्ट्री॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑
devī jóṣṭrī sárasvaty aśvínéndram avardhayan | śrótraṃ ná kárṇayor yáśo jóṣṭrībhyāṃ dadhur indríyaṃ vasuváne vasudhèyasyá vyantu yája
देवी जोष्ट्री सरस्वत्यश्विनौ चेन्द्रमवर्धयन्। यथा श्रोत्रं कर्णयोः प्रतिष्ठितं तथा यशो जोष्ट्रीभ्यां दधुरिन्द्रियं। वसुवने वसुधेयस्य व्यन्तु; यज।
दे॒वी । जोष्ट्री॑ । सर॑स्वती । अ॒श्विना॑ । इन्द्र॑म् । अ॒व॒र्ध॒य॒न् । श्रोत्र॑म् । न । कर्ण॑योः । यशः॑ । जोष्ट्री॑भ्याम् । दधुः । इ॒न्द्रि॒यम् । व॒सु॒वने॑ । व॒सु॒धेय॑स्य । व्यन्तु॑ । यज॑