दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒ऽश्विना॑ । वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः
devā́ yajñám atanvata bheṣajáṃ bhiṣájā ’śvínā | vācā́ sárasvatī bhiṣág índrāyendriyā́ṇi dádhataḥ
देवाः यज्ञं भेषजं तन्वत; अश्विनौ भिषजौ कृत्वा, वाचा सरस्वतीं भिषजीं कृत्वा; इन्द्राय ऐन्द्रियाणि (इन्द्रियशक्तीः) दधतुः।
देवाः । यज्ञम् । अतन्वत । भेषजम् । भिषजा । अश्विना । वाचा । सरस्वती । भिषक् । इन्द्राय । इन्द्रियाणि । दधतः ।