प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ दिवं॑ यच्छ॒ दिवं॑ दृᳪह॒ दिवं॒ मा हि॑ᳪसीः । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य । सूर्य॑स्त्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम्
paramēṣṭhī tvā̄ sādāyatu divás-pṛṣṭhé vyácasvatīṃ práthasvatīṃ dívaṃ yaccha dívaṃ dṛṃha dívaṃ mā́ hiṃsīḥ | víśvasmai prāṇā́yāpānā́ya vyānā́yodānā́ya pratiṣṭhā́yai carítrāya | sū́ryas tvā̄’bhí pātu mahyā́ svastyā́ chárdiṣā śántamena táyā devátayā’ṅgirasvád dhruvé sī́datam
परमेष्ठी त्वा सादयतु दिवः पृष्ठे—व्यचस्वतीं प्रथस्वतीम्। दिवं यच्छ; दिवं दृंह; दिवं मा हिंसीः। विश्वस्मै प्राणाय अपानाय व्यानाय उदानाय, प्रतिष्ठायै च चरित्राय। सूर्यस्त्वाभि पातु मह्या स्वस्त्या छर्दिषा शन्तमेन; तया देवतया अङ्गिरस्वद् ध्रुवे सीदतम्।
परमेष्ठी । त्वा । सादयतु । दिवः-पृष्ठे । व्यचस्वतीम् । प्रथस्वतीम् । दिवम् । यच्छ । दिवम् । दृंह । दिवम् । मा । हिंसीः । विश्वस्मै । प्राणाय । अपानाय । व्यानाय । उदानाय । प्रतिष्ठायै । चरित्राय । सूर्यः । त्वा । अभि । पातु । मह्या । स्वस्त्या । छर्दिषा । शन्तमेन । तया । देवतया । अङ्गिरस्वत् । ध्रुवे । सीदतम्