या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुच॑: । इन्द्रा॑ग्नी॒ ताभि॒: सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते
yā vo devāḥ sū́rye rucó góṣv aśvéṣu yā́ rucáḥ | indrāgnī tā́bhiḥ sarvābhī rucáṃ no dhatta bṛ́haspate ||
हे देवाः, सूर्ये या वो रुचो गोष्वश्वेषु या रुचः; इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त, हे बृहस्पते।
याः । वः॒ । दे॒वाः । सू॒र्ये॒ । रुचः॑ । गोषु॑ । अश्वे॑षु । याः । रुचः॑ । इन्द्रा॑ग्नी । ताभिः॑ । सर्वा॑भिः । रुच॑म् । नः॒ । ध॒त्त॒ । बृह॒स्प॒ते॒ ।