ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् । अ॒ग्नेष्ट्वा॒ तेज॑सा सादयामि
ūrdhvó bhava práti vidhy ádhy asmád āvíḥ kṛṇuṣva daivyā́ny agne | áva sthirā́ tanuhí yātujū́nāṃ jāmím ajāmím prá mṛṇīhi śátrūn | agnéṣṭvā́ téjasā sādáyāmi
ऊर्ध्वो भव; प्रति विध्य; अस्मदाविष्कृणुष्व दैव्यान्यग्ने। अव स्थिरा तनुहि यातुजूनां; जामिमजामिं प्र मृणीहि शत्रून्। अग्नेष्ट्वा तेजसा सादयामि।
ऊर्ध्वः । भव । प्रति । विध्य । अधि । अस्मत् । आविः । कृणुष्व । दैव्यानि । अग्ने । अव । स्थिराः । तनुहि । यातुजूनाम् । जामिम् । अजामिम् । प्र । मृणीहि । शत्रून् । अग्ने । इष्ट्वा । तेजसा । सादयामि