या ओष॑धी॒: पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हᳪ श॒तं धामा॑नि स॒प्त च॑
yā́ oṣádhīḥ pū́rvā jātā́ devébhyaḥ triyugáṃ purā́ | manái nú babhrūṇām aháṃ śatáṃ dhā́māni saptá ca
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा, ता इदानीं मनसा नु स्मरत। अहं बभ्रूणामोषधीनां शतं धामानि सप्त च जानामि।
याः । ओषधीः । पूर्वाः । जाताः । देवेभ्यः । त्रि-युगम् । पुरा । मनै । नु । बभ्रूणाम् । अहम् । शतम् । धामानि । सप्त । च ।