अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौ॒: क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः
ákrandad agní stanáyan niva dyáuḥ kṣā́mā rerihat vīrúdhaḥ samáñjan | sadyó jajñānó ví hí iddhó akhyad ā́ rodasī bhānúnā bhāty antáḥ
अग्निरक्रन्दत स्तनयन्निव द्यौः; क्षामां रेरिहद् वीरुधः समञ्जन्। सद्यो जज्ञानो वि हीमिद्धो अख्यद्; आ रोदसी भानुना भात्यन्तः।
अक्रन्दत् । अग्निः । स्तनयन् । इव । द्यौः । क्षामा । रेरिहत् । वीरुधः । सम्-अञ्जन् । सद्यः । जज्ञानः । वि । हि । इद्धः । अख्यत् । आ । रोदसी । भानुना । भाति । अन्तः