प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒ष्ट्वम् । बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा हि॑ᳪसीस्त॒न्वा॒ प्र॒जाः
préd agne jyótiṣmān yāhi śivébhir arcíbhiṣ ṭvám | bṛhád-bhir bhānúbhir bhā́sān mā́ hiṃsīs tanvā́ prajā́ḥ ||
प्रेदग्ने ज्योतिष्मान् याहि शिवेभिरर्चिभिष्ट्वम्। बृहद्भिर्भानुभिर्भासन् मा हिंसीस्तन्वा प्रजाः॥
प्र । इत् । अग्ने । ज्योतिष्मान् । याहि । शिवेभिः । अर्चिभिः । त्वम् । बृहद्भिः । भानुभिः । भासन् । मा । हिंसीः । तन्वा । प्रजाः