उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्त्ये॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि । इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन्
uśík-pā́vako aratíḥ sumedhā́ martyéṣv agnír amṛ́to ní dhāyi | íyarti dhūmám aruṣáṃ bharibhrád ucchukréṇa śocíṣā dyā́m inakṣan ||
उशिक्पावकः अरतिः सुमेधाः—अग्निरमृतो मर्त्येषु निधायि। स अरुषं धूमम् इयर्ति, भरिभ्रत्; उच्छुक्रेण शोचिषा द्याम् इनक्षन्।
उशिक् । पावकः । अरतिः । सुमेधाः । मर्त्येषु । अग्निः । अमृतः । नि । धायि । इयर्ति । धूमम् । अरुषम् । भरिभ्रत् । उत्-शुक्रेण । शोचिषा । द्याम् । इनक्षन्