Previous Mantra
Next Mantra

Mantra 8

Rishi: Yājñavalkya-tradition (Śukla-Yajurveda school attribution)
Devata: Kṣatra (royal power) with Indra, Mitra, Varuṇa
Chandas: Yajus (prose with imperative cadence)

क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑र॒सीन्द्र॑स्य॒ वार्त्र॑घ्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒ त्वया॒ऽयं वृ॒त्रं ब॑धेत् । दृ॒बाऽसि॑ रु॒जाऽसि॑ क्षु॒माऽसि॑ । पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त

kṣatrásyólbam asi kṣatrásya jarā́yur asi kṣatrásya yónir asi kṣatrásya nā́bhir asī́ndrasya vā́rtraghnam asi mitrásyāsi váruṇasyāsi tváyā ’yáṃ vr̥tráṃ badhet | dr̥bā́si rujā́si kṣumā́si | pā́tainaṃ prā́ñcaṃ pā́tainaṃ pratyáñcaṃ pā́tainaṃ tiryáñcaṃ dígbhyaḥ pāta

क्षत्रस्योल्बमसि क्षत्रस्य जराय्वसि क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि। इन्द्रस्य वार्त्रघ्नमसि मित्रस्यासि वरुणस्यासि। त्वयाऽयं वृत्रं बधेत्। द्रुबाऽसि रुजाऽसि क्षुमाऽसि। पातैनं प्राञ्चं पातैनं प्रत्यञ्चं पातैनं तिर्यञ्चं दिग्भ्यः पात।

क्षत्रस्य । उल्बम् । असि । क्षत्रस्य । जरायुः । असि । क्षत्रस्य । योनिः । असि । क्षत्रस्य । नाभिः । असि । इन्द्रस्य । वार्त्रघ्नम् । असि । मित्रस्य । असि । वरुणस्य । असि । त्वया । अयम् । वृत्रम् । बधेत् । दृबा । असि । रुजा । असि । क्षुमा । असि । पात । एनम् । प्राञ्चम् । पात । एनम् । प्रत्यञ्चम् । पात । एनम् । तिर्यञ्चम् । दिग्भ्यः । पात ।

K
Kṣatra (Royal Power)
I
Indra
M
Mitra
V
Varuṇa