स॒वि॒तुस्त्वा॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: । स॒वि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: । तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि
savitu̱s tvā́ prasavá utpunāmy ácchidreṇa pavítreṇa sū́ryasya raśmíbhíḥ | savitu̱r vaḥ prasavá utpunāmy ácchidreṇa pavítreṇa sū́ryasya raśmíbhíḥ | téjo ’si śukrám asy amṛ́tam asi dhā́ma nā́māsi priyáṃ devā́nām anādhṛ́ṣṭaṃ devayájanam asi
सवितुस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः। सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः। तेजोऽसि शुक्रमस्यमृतमसि धाम नामासि प्रियं देवानामनाधृष्टं देवयजनमसि।
सवितुः । त्वा । प्रसवे । उत्-पुनामि । अ-च्छिद्रेण । पवित्रेण । सूर्यस्य । रश्मिभिः । सवितुः । वः । प्रसवे । उत्-पुनामि । अ-च्छिद्रेण । पवित्रेण । सूर्यस्य । रश्मिभिः । तेजः । असि । शुक्रम् । असि । अमृतम् । असि । धाम । नाम । असि । प्रियम् । देवानाम् । अनाधृष्टम् । देव-यजनम् । असि