Sukta 8.93
आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम् । अजातशत्रुरस्तृतः ॥
आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य॑म् । अजा॑तशत्रु॒रस्तृ॑तः ॥
ā́d u me nivaró bhúvad vṛtrahā́diṣṭa paúṃsyam | ajā́taśatrur ástṛtaḥ ||
अथ मे निवरोऽभवत्, वृत्रहादिष्टं पौंस्यं बलम्। अजातशत्रुरस्तृतोऽप्रहतोऽनाहतः समतिष्ठत्॥
आत् । ऊँ॒ इति॑ । मे॒ । नि॒ऽव॒रः । भु॒व॒त् । वृ॒त्र॒ऽहा । अ॒दि॒ष्ट॒ । पौंस्य॑म् । अजा॑तऽशत्रुः । अस्तृ॑तः ॥आत् । ऊँ इति । मे । निवरः । भुवत् । वृत्रहा । अदिष्ट । पौंस्यम् । अजातशत्रुः । अस्तृतः ॥āt | oṃ iti | me | ni-varaḥ | bhuvat | vṛtra-hā | adiṣṭa | paiṃsyam | ajāta-śatruḥ | astṛtaḥ