Sukta 5.54
तं नाकमर्यो अगृभीतशोचिषं रुशत्पिप्पलं मरुतो वि धूनुथ । समच्यन्त वृजनातित्विषन्त यत्स्वरन्ति घोषं विततमृतायवः ॥
तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू॑नुथ । सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत्स्वर॑न्ति॒ घोषं॒ वित॑तमृता॒यव॑: ॥
táṁ nā́kam aryó agṛ́bhīta-śociṣaṁ ruśát-píppalaṁ maruto ví dhūnutha | sám acyanta vṛ́janā́ti-tviṣanta yát sváranti ghóṣaṁ ví-tatam ṛtā́yavaḥ ||
तं नाकम्—अगृभीतशोचिषं रुशत्पिप्पलम्—मरुतो, यूयं विधूनुथ, प्रवर्तयथ। वृजनानि समच्यन्त, अतित्विषन्ति यदा यूयं; यदा ऋतायवः स्वरन्ति घोषं विततम्।
तम् । नाक॑म् । अ॒र्यः । अगृ॑भीतऽशोचिषम् । रुश॑त् । पिप्प॑लम् । म॒रु॒तः॒ । वि । धू॒नु॒थ॒ । सम् । अ॒च्य॒न्त॒ । वृ॒जना॑ । अति॑त्विषन्त । यत् । स्वर॑न्ति । घोष॑म् । विऽत॑तम् । ऋ॒त॒ऽयवः॑ ॥तम् । नाकम् । अर्यः । अगृभीतशोचिषम् । रुशत् । पिप्पलम् । मरुतः । वि । धूनुथ । सम् । अच्यन्त । वृजना । अतित्विषन्त । यत् । स्वरन्ति । घोषम् । विततम् । ऋतयवः ॥tam | nākam | aryaḥ | agṛbhīta-śociṣam | ruśat | pippalam | marutaḥ | vi | dhūnutha | sam | acyanta | vṛjanā | atitviṣanta | yat | svaranti | ghoṣam | vi-tatam | ṛta-yavaḥ