Sukta 1.14
त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि । सेमं नो अध्वरं यज ॥
त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि । सेमं नो॑ अध्व॒रं य॑ज ॥
tváṃ hótā mánur hitó’gne yajñéṣu sīdasi | sémáṃ no adhvaráṃ yaja ||
त्वं मनुर्हितोऽग्ने होता; यज्ञेषु सीदसि। तस्मादस्माकमिममध्वरं निर्दोषं यज—यथाविधि समापय।
त्वम् । होता॑ । मनुः॑ऽहितः । अग्ने॑ । य॒ज्ञेषु॑ । सी॒द॒सि॒ । सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥त्वम् । होता । मनुःहितः । अग्ने । यज्ञेषु । सीदसि । सः । इमम् । नः । अध्वरम् । यज ॥tvam | hotā | manuḥ-hitaḥ | agne | yajñeṣu | sīdasi | saḥ | imam | naḥ | adhvaram | yaja