Adhyaya 84 — The Gods’ Hymn after the Slaying of Mahishasura and the Goddess’ Boon
किं वर्णयाम तव रूपमचिन्त्यमेतत् किं चातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥
kiṃ varṇayāma tava rūpamacintyametat kiṃ cātivīryamasurakṣayakāri bhūri / kiṃ cāhaveṣu caritāni tavādbhutāni sarveṣu devyasuradevagaṇādikeṣu
देवि, तवाचिन्त्यं रूपं कथं नु वर्णयेम? असुरविनाशकं तवात्यन्तं पराक्रमं कथं वा? देवासुरादिसैन्येषु समरेषु तव अद्भुतानि कर्माणि कथं वर्णयामः?