देवैर्विष्णोः शरणागमनम्—शिवलिङ्गस्थापनं, शिवसहस्रनामस्तवः, सुदर्शनचक्रप्रदानं च
पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा रथाङ्गं सुशितं घोरं तेन तान् हन्तुम् अर्हसि
purā jalandharaṃ hantuṃ nirmitaṃ tripurāriṇā rathāṅgaṃ suśitaṃ ghoraṃ tena tān hantum arhasi
पुरा जलन्धरवधार्थं त्रिपुरारिणा घोरं सुतीक्ष्णं रथाङ्गं निर्मितम्। तेनैव शस्त्रेण तान् शत्रून् हन्तुमर्हसि॥
Suta Goswami (narrating an internal martial counsel within the Jalandhara episode)