Pṛthivī-dohaṇa (The Milking of the Earth) and the Praise of King Pṛthu
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्ग पादे शेषमन्वन्तराश्यानं पृथिवीदोहनं च नाम षट्त्रिंशत्तमो ऽध्यायः सूत उवाच आसीदिह समुद्रान्ता वसुधेति यथा श्रुतम् / वसु धत्ते यतस्तस्माद्वसुधा सेति गीयते
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅga pāde śeṣamanvantarāśyānaṃ pṛthivīdohanaṃ ca nāma ṣaṭtriṃśattamo 'dhyāyaḥ sūta uvāca āsīdiha samudrāntā vasudheti yathā śrutam / vasu dhatte yatastasmādvasudhā seti gīyate
इति श्रीब्रह्माण्डमहापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे ‘शेषमन्वन्तराश्यानं पृथिवीदोहनं च’ नाम षट्त्रिंशत्तमोऽध्यायः। सूत उवाच—इह वसुधा समुद्रान्ता आसीदिति यथा श्रुतम्; यतो वसु धत्ते तस्माद् ‘वसुधा’ इति गीयते।