मन्वन्तरानुक्रमवर्णनम् (Enumeration of Manvantara Cycles) — with focus on Svārociṣa Manvantara
ऋषय ऊचुः प्रजापतेः सुता कस्माद्वारुणी प्रोच्यते ऽनघ / एतदाचक्ष्व तत्वेन कुशलो ह्यसि विस्तरे
ṛṣaya ūcuḥ prajāpateḥ sutā kasmādvāruṇī procyate 'nagha / etadācakṣva tatvena kuśalo hyasi vistare
ऋषय ऊचुः—हे अनघ! प्रजापतेः सुता सा कस्मात् ‘वारुणी’ इति कथ्यते? एतत् तत्त्वेन विस्तरेण आचक्ष्व; त्वं हि विस्तरकुशलः।