Nīlakaṇṭha-nāmotpatti-kathana
Origin of the Epithet “Nīlakaṇṭha”
सूर्यायुतानामयुतप्रभाव नमो ऽस्तु ते चन्द्रसहस्रगौर / नमो ऽस्तु ते वज्रपिनाकधारिणे नमोस्तु ते देव हिरण्यवाससे
sūryāyutānāmayutaprabhāva namo 'stu te candrasahasragaura / namo 'stu te vajrapinākadhāriṇe namostu te deva hiraṇyavāsase
सूर्यायुतानामयुतप्रभाव नमोऽस्तु ते चन्द्रसहस्रगौर । नमोऽस्तु ते वज्रपिनाकधारिणे नमोऽस्तु ते देव हिरण्यवाससे ॥