Āditya-vyūha-kīrtana
Praise/Account of the Solar Array and Celestial Motions
यो ऽयं चतुर्द्दिशं पुच्छे शैशुमारे व्यवस्थितः / उत्तानपादपुत्रो ऽसौ मेढीभूतो ध्रुवो दिवि
yo 'yaṃ caturddiśaṃ pucche śaiśumāre vyavasthitaḥ / uttānapādaputro 'sau meḍhībhūto dhruvo divi
योऽयं शैशुमारस्य पुच्छे चतुर्द्दिशं व्यवस्थितः, स उत्तानपादपुत्रो ध्रुवो दिवि मेढीभूतोऽस्ति।