Āditya-vyūha-kīrtana
Praise/Account of the Solar Array and Celestial Motions
यस्मिन्ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयंप्रभुः / तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्त्तिताः
yasminbrahmā samutpannaścaturvaktraḥ svayaṃprabhuḥ / tānyevāṇḍakapālāni sarve meghāḥ prakīrttitāḥ
यस्मिन्नण्डे चतुर्वक्त्रः स्वयंप्रभुः ब्रह्मा समुत्पन्नः; तान्येव अण्डकपालानि सर्वे मेघाः इति प्रकीर्तिताः।