अग्निनिचयः (Agninichaya) / The Accumulation of Sacred Fire & the Classification of Pitṛs by Time-Order
तदुपश्रुत्य निधनं सत्या देवो ऽथ शूलभृत् / संवादं च तयोर्बुद्धा याथातथ्येन शङ्करः / दक्षस्य च ऋषीणां च चुकोप भगवान्प्रभुः
tadupaśrutya nidhanaṃ satyā devo 'tha śūlabhṛt / saṃvādaṃ ca tayorbuddhā yāthātathyena śaṅkaraḥ / dakṣasya ca ṛṣīṇāṃ ca cukopa bhagavānprabhuḥ
तस्याः निधनं श्रुत्वा तथा तयोः संवादं याथातथ्येन बुद्ध्वा शूलभृत् देवः शङ्करः दक्षस्य च ऋषीणां च प्रति भगवान् प्रभुः चुकोप।