अग्निनिचयः (Agninichaya) / The Accumulation of Sacred Fire & the Classification of Pitṛs by Time-Order
सूत उवाच दक्षस्यासन्सुता ह्यष्टौ कन्या याः कीर्त्तिता मया / स्वेभ्यो गृहेभ्य आनाय्य ताः पिताभ्यर्चयद्गृहे
sūta uvāca dakṣasyāsansutā hyaṣṭau kanyā yāḥ kīrttitā mayā / svebhyo gṛhebhya ānāyya tāḥ pitābhyarcayadgṛhe
सूत उवाच—दक्षस्य ह्यष्टौ कन्याः सुताः आसन्, याः मया कीर्तिताः। स्वेभ्यो गृहेभ्य आनाय्य ताः पिता गृहेऽभ्यर्चयत्॥