Vasiṣṭha-gamana
Vasiṣṭha’s Departure / The Episode of Sagara
सक्रोधो ऽपि महीपतिर्गुरुवचः संभावयंस्तानरीन्धर्मस्य स्वकुलोचितस्य च तथा वेषस्य संत्यागतः / श्रौतस्मार्त्तविभिन्नकर्मनिरतान्विप्रैश्च दूरोञ्झितान्सासून्केवलमत्यजन्मृतसमानेकैकशः पार्थिवान्
sakrodho 'pi mahīpatirguruvacaḥ saṃbhāvayaṃstānarīndharmasya svakulocitasya ca tathā veṣasya saṃtyāgataḥ / śrautasmārttavibhinnakarmaniratānvipraiśca dūroñjhitānsāsūnkevalamatyajanmṛtasamānekaikaśaḥ pārthivān
सक्रोधोऽपि महीपतिः गुरुवचः संभावयन् तान् अरीन्; स्वकुलोचितधर्मस्य तथा वेषस्य च संत्यागतः। श्रौतस्मार्त्तविभिन्नकर्मनिरतान् विप्रैश्च दूरोञ्झितान्; सासून् केवलम् अत्यजन्, मृतसमानेकैकशः पार्थिवान्।