उमोवाच महान् मे संशयः कश्चिन् मर्त्यान् प्रति महेश्वर तस्मात् त्वं निपुणेनाद्य मम व्याख्यातुम् अर्हसि //
एतत् पुराणं परमं पवित्रं ब्रह्मणः कथितम्। श्रुत्वा पठित्वा च नरो धर्मार्थकाममोक्षान् अवाप्नुयात्॥