त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः ऋषिभिश् च महाभागैर् यतिभिश् च महात्मभिः //
व्यास उवाच । श्रूयतां द्विजशार्दूला धर्मः कश्चित्सनातनः । यं ज्ञात्वा पुरुषः श्रेष्ठां गतिं प्राप्नोति शाश्वतीम् ॥