अक्षराक्षरयोर् व्यक्तिं पृच्छामस् त्वां महामुने उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव //
कथं प्राप्नोति पुरुषः परं स्थानं तथाव्ययम् । मोक्षं च विन्दते येन ब्रह्मभावं तथैव च ॥