Akrūra’s Journey to Vraja and His Devotional Vision of Kṛṣṇa and Balarāma
ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ । पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ ॥ २८ ॥ किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ । सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९ ॥ ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम् । शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ ३० ॥ उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ । पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ॥ ३१ ॥ प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती । अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२ ॥ दिशो वितिमिरा राजन्कुर्वाणौ प्रभया स्वया । यथा मारकत: शैलो रौप्यश्च कनकाचितौ ॥ ३३ ॥
dadarśa kṛṣṇaṁ rāmaṁ ca vraje go-dohanaṁ gatau pīta-nīlāmbara-dharau śarad-amburahekṣaṇau
स ददर्श व्रजे कृष्णं रामं च गोदोहनं गतौ। पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ॥ किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ। सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ॥ ध्वजवज्राङ्कुशाम्भोजचिह्नितैरङ्घ्रिभिर्व्रजम्। शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ॥ उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ। पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ॥ प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती। अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ॥ दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया। यथा मारकतशैलो रौप्यश्च कनकाचितौ॥