शङ्खकर्पूरस्फटिकनवनीतकपोतपारावतविमलकमयूरग्रीवावर्णाः सस्यकगोमेदकगुडमत्स्यण्डिकावर्णाः कोविदारपद्मपाटलीकलायक्षौमातसीपुष्पवर्णाः ससीसाः साञ्जना विस्रा भिन्नाः श्वेताभाः कृष्णाः कृष्णाभाः श्वेताः सर्वे वा लेखाबिन्दुचित्रा मृदवो ध्मायमाना न स्फुटन्ति बहुफेनधूमाश्च रूप्यधातवः ॥ कZ_०२.१२.०६ ॥
śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāś ca rūpyadhātavaḥ
शङ्खकर्पूरस्फटिकनवनीतकपोतपारावतविमलकमयूरग्रीवावर्णाः; सस्यकगोमेदकगुडमत्स्यण्डिकावर्णाः; कोविदारपद्मपाटलीकलायक्षौमातसीपुष्पवर्णाः; ससीसाः साञ्जना विस्राः; भिन्नाः श्वेताभाः कृष्णाः कृष्णाभाः श्वेताः सर्वे वा लेखाबिन्दुचित्राः; मृदवो ध्मायमाना न स्फुटन्ति; बहुफेनधूमाश्च—एते रूप्यधातवः।
Officials are instructed to note associated minerals/impurities as part of grading, which affects expected yield, processing cost, and thus state pricing and extraction priorities.