पीतकास्ताम्रकास्ताम्रपीतका वा भूमिप्रस्तरधातवो भिन्ना नीलराजीवन्तो मुद्गमाषकृसरवर्णा वा दधिबिन्दुपिण्डचित्रा हरिद्राहरीतकीपद्मपत्त्रशैवलयकृत्प्लीहानवद्यवर्णा भिन्नाश्चुञ्चुवालुकालेखाबिन्दुस्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस्ताप्यमाना न भिद्यन्ते बहुफेनधूमाश्च सुवर्णधातवः प्रतीवापार्थास्ताम्ररूप्यवेधनाः ॥ कZ_०२.१२.०५ ॥
pītakās tāmrakās tāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantaḥ tāpyamānā na bhidyante bahuphenadhūmāś ca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ
पीतकाḥ ताम्रकाḥ ताम्रपीतका वा भूमिप्रस्तरधातवः; भिन्ना नीलराजीवन्तः, मुद्गमाषकृसरवर्णा वा, दधिबिन्दुपिण्डचित्रा, हरिद्राहरीतकीपद्मपत्त्रशैवलयकृत्प्लीहानवद्यवर्णा वा; भिन्नाश्चुञ्चुवालुकालेखाबिन्दुस्वस्तिकवन्तः; सुगुलिका अर्चिष्मन्तः; ताप्यमाना न भिद्यन्ते; बहुफेनधूमाश्च—एते सुवर्णधातवः, प्रतीवापार्थाः, ताम्ररूप्यवेधनाः।
Because heat response is a practical authenticity/quality signal relevant to smelting outcomes; it reduces processing losses and guides state acceptance/rejection.