रथे॒ तिष्ठ॑न् नयति वा॒जिन॑: पु॒रो यत्र॑-यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मन॑: प॒श्चादनु॑ यच्छन्ति र॒श्मय॑:
rathé tíṣṭhan nayati vājínaḥ puró yátra-yatra kā́mayate suṣārathíḥ | abhī́śūnāṃ mahimā́naṃ panāyata mánaḥ paścā́d ánu yacchanti raśmáyaḥ
Стоя на колеснице, благой возничий ведёт коней вперёд — куда бы ни пожелал. Возгласите величие вожжей: ум идёт позади, а вожжи следуют по его следу.
रथे । तिष्ठन् । नयति । वाजिनः । पुरः । यत्र-यत्र । कामयते । सु-सारथिः । अभीशूनाम् । महिमानम् । पनायत । मनः । पश्चात् । अनु । यच्छन्ति । रश्मयः