ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिः सङ्का॒ पृत॑नाश्च॒ सर्वा॑: पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः
bahvīnā́ṃ pitā́ bahúr asya putráś ciścā́ kṛṇoti samánāvagátya | iṣudhíḥ sáṅkā pṛ́tanāś ca sárvāḥ pṛṣṭhé ninaddhó jayati prasū́taḥ
Отец многих и многим — отец; он приводит своё дело в готовность, достигнув схватки. Колчан, крепление и все битвы — привязанные к спине — он, побуждённый, одолевает и побеждает.
बह्वीनाम् । पिता । बहुः । अस्य । पुत्रः । चिश्चा । कृणोति । समना-अवगत्य । इषुधिः । सङ्का । पृतनाः । च । सर्वाः । पृष्ठे । निनद्धः । जयति । प्रसूतः