इ॒न्द्रा॒ग्न्योः प॑क्ष॒ति: सर॑स्वत्यै॒ निप॑क्षतिर्मि॒त्रस्य॑ तृ॒तीया॒पां च॑तु॒र्थी निरृ॑त्यै पञ्च॒म्यग्नीषोम॑योः ष॒ष्ठी स॒र्पाणा॑ᳪ सप्त॒मी विष्णो॑रष्ट॒मी पू॒ष्णो न॑व॒मी त्वष्टु॑र्दश॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒म्यै त्र॑योद॒शी द्यावा॑पृथि॒व्योर्दक्षि॑णं पा॒र्श्वं विश्वे॑षां दे॒वाना॒मुत्त॑रम्
indrāgnýoḥ pakṣatíḥ sárasvatyai nípakṣatir mítrasya tṛtī́yā apā́ṃ caturthī́ nírṛtyai pañcamī́ agnīṣómayoḥ ṣaṣṭhī́ sarpā́ṇāṃ saptamī́ víṣṇor aṣṭamī́ pūṣṇó navamī́ tváṣṭur daśamī́ índrasyaikādaśī́ váruṇasya dvādaśī́ yámyai trayodaśī́ dyā́vā-pṛthivyór dákṣiṇaṃ pārśváṃ víśveṣāṃ devā́nām úttaram
Крыло — Индры-и-Агни; подкрылье — Сарасвати; третья (часть) — Митры; четвёртая — Вод; пятая — Ниррити; шестая — Агни-и-Сомы; седьмая — Змеев; восьмая — Вишну; девятая — Пушана; десятая — Тваштара; одиннадцатая — Индры; двенадцатая — Варуны; тринадцатая — Ями; правый бок — Неба-и-Земли; северная (верхняя) сторона — всех богов.
इन्द्रा-अग्न्योः । पक्षतिः । सरस्वत्यै । निपक्षतिः । मित्रस्य । तृतीया । अपाम् । चतुर्थी । निरृत्यै । पञ्चमी । अग्नीषोमयोः । षष्ठी । सर्पाणाम् । सप्तमी । विष्णोः । अष्टमी । पूष्णः । नवमी । त्वष्टुः । दशमी । इन्द्रस्य । एकादशी । वरुणस्य । द्वादशी । यम्यै । त्रयोदशी । द्यावा-पृथिव्योः । दक्षिणम् । पार्श्वम् । विश्वेषाम् । देवानाम् । उत्तरम्