दे॒वानां॑ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वाना॑ᳪ रा॒तिर॒भि नो॒ निव॑र्तताम् । दे॒वाना॑ᳪ स॒ख्यमुप॑सेदिमा व॒यं दे॒वा न॒ आयु॒: प्रति॑रन्तु जी॒वसे॑
devā́nāṃ bhadrā́ sumatír ṛjūyátāṃ devā́nāṃ rātír abhí no nívartatām | devā́nāṃ sakhyám upásedimā vayáṃ devā́ na ā́yuḥ pratírantu jīváse
Да направится прямо благой замысел Богов; да обратится к нам щедрый дар Богов. Мы приблизились к дружбе Богов; да утвердят нам Боги жизнь — для жизни.
दे॒वाना॑म् । भ॒द्रा । सु॒-म॒तिः । ऋ॒जू॒य॒ताम् । दे॒वाना॑म् । रा॒तिः । अ॒भि । नः॒ । नि-व॑र्तताम् । दे॒वाना॑म् । स॒ख्यम् । उप॑-सेदिम । व॒यम् । दे॒वाः । नः॒ । आयुः॑ । प्रति॑-रन्तु । जी॒वसे॑