किᳪस्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न्
kíṃ svíd vánaṃ ká u sá vṛkṣá āsā yató dyā́vā-pṛthivī́ niṣṭatakṣúḥ | manīṣíṇo mánasā pṛcchate dú tád yád adhyátiṣṭhad bhúvanāni dhāráyan ||
Что же, молю, было тем деревом, и что — тем древом, из которого они вытесали небо и землю? Мудрые, воистину, умом вопрошают о том, что, стоя над ними, удерживало миры.
किम् स्वित् वनम् । कः उ सः वृक्षः आसीत् । यतः द्यावा-पृथिवी निष्टतक्षुः । मनीषिणः मनसा पृच्छते इदु । तत् यत् अध्यतिष्ठत् भुवनानि धारयन् ।